Pages

Monday, September 9, 2019

श्री वन-दुर्गा मन्त्र-विधान Srivan-Durga Mantra-Vidhan

                श्री वन-दुर्गा मन्त्र-विधान       Srivan-Durga Mantra-Vidhan 



संकल्प:- देश-कालौ स्मृत्वा अमुक-गोत्रोऽमुक-शर्माहं अमुक-कार्य-सिद्धयर्थे (मनोऽभिलषित-कार्य-सिद्धयर्थे वा) श्रीवन-दुर्गा-मन्त्रस्य एकादश-शत-संख्याकं-जपं करिष्ये । 

विनियोगः- ॐ अस्य श्रीवन-दुर्गा-देवता-मन्त्रस्य श्रीआरण्यक ऋषिः, अनुष्टुप छन्दः, श्रीवन-दुर्गा देवता, ॐ वीजं, स्वाहा शक्तिः, सङ्कल्पोद्दिष्ट-कार्य-सिद्धयर्थे जपे विनियोगः । 
ऋष्यादि-न्यासः- श्रीआरण्यक ऋषये नमः शिरसि, अनुष्टुप छन्दसे नमः मुखे, श्रीवन-दुर्गा देवतायै नमः हृदि, ॐ वीजाय नमः गुह्ये, स्वाहा शक्तये नमः पादयो, सङ्कल्पोद्दिष्ट-कार्य-सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

कर-न्यासः- उत्तिष्ठ पुरुषि अंगुष्ठाभ्यां नमः, किं स्वपिषि तर्जनीभ्यां नमः, भयं मे समुपस्थितं मध्यमाभ्यां नमः, यदि शक्यमशक्यं हुं अनामिकाभ्यां नमः, तन्मे भगवति कनिष्ठिकाभ्यां नमः, शमय स्वाहा करतल-कर-पृष्ठाभ्यां नमः । 

अङ्ग-न्यासः- उत्तिष्ठ पुरुषि हृदयाय नमः, किं स्वपिषि शिरसे स्वाहा, भयं मे समुपस्थितं शिखायै वषट्, यदि शक्यमशक्यं हुं नेत्र-त्रयाय वोषट्, तन्मे भगवति कवचाय हुं, शमय स्वाहा अस्त्राय फट् । 

ध्यानः- सौवर्णासन-संस्थिता त्रिनयनां सौदामिनी-सन्निभाम् । शङ्खं चक्र-वराभयानि दधतीमिन्द्रोः कलां विभ्रतीम् ।। ग्रैवेयाङ्गद-हार-कुण्डल-धरामाखण्डलाद्यैः स्तुताम् । ध्यायेद् विन्ध्य-निवासिनीं शशि-मुखीं पार्श्वस्थ पञ्चाननाम् ।। 

मन्त्रः- “ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं हुं तन्मे भगवति ! शमय स्वाहा ।।” 

विधिः- प्रतिदिन ग्यारह माला २१ दिनों तक करें । यदि कार्य न हो तो ४१ दिन तक जप करना चाहिए ।

Related topics-




No comments:

Post a Comment