Pages

Friday, August 30, 2019

कल्याणवृष्टिस्तवः kalyaanavrshtistavah


     ॥ कल्याणवृष्टिस्तवः ॥
कल्याणवृष्टिभिरिवामृतपूरिताभि-,
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले,
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १॥

एतावदेव जननि स्पृहणीयमास्ते,
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायुतसोदरस्य,
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २॥

ईशात्वनामकलुषाः कति वा न सन्ति,
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते,
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३॥

लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं,
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः,
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४॥

ह्रींकारमेव तव नाम गृणन्ति वेदा,
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय,
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५॥

हन्तुः पुरामधिगलं परिपीयमानः,
क्रूरः कथं न भविता गरलस्यवेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं,
देवस्य शश्वदमृताप्लुतशीतलस्य ॥ ६॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते,
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मुकुटमुज्ज्वलमातपत्रं,
द्वे चामरे च महतीं वसुधां ददाति ॥ ७॥

कल्पद्रुमैरभिमतप्रतिपादनेषु,
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं,
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८॥

हन्तेतरेष्वपि मनांसि निधाय चान्ये,
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि,
त्वामेव नौमि शरणं जननि त्वमेव ॥ ९॥

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-,
मालोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं,
जातो जनिष्यति जनो न च जायते वा ॥ १०॥

ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां,
किं नाम दुर्लभमिहत्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया,
तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि,
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि,
मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२॥

कल्पोपसंहृतिषु कल्पितताण्डवस्य,
देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा,
सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३॥

लग्नं सदा भवतु मातरिदं तवार्धं,
तेजः परं बहुलकुङ्कुम पङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं,
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४॥

ह्रींकारमेव तव नाम तदेव रूपं,
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं,
सौख्यं तनोति सरसीरुहसम्भवादेः ॥ १५॥

ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं,
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी,
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कल्याणवृष्टिस्तवः सम्पूर्णः ॥

Related topics-






No comments:

Post a Comment