Pages

Sunday, August 25, 2019

गणेशपञ्चरत्नम् Ganeshpanchatratnam

           गणेशपञ्चरत्नम् 

 Ganeshpanchatratnam


मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजेपुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेवयोगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५।।

                  फलश्रुती 


महागणेशपञ्चरत्नमादरेणयोऽन्वहं
प्रजल्पति प्रभातके हृदिस्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितींसुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैतिसोऽचिरात् ॥६॥

Related topics-
● गणपति के मंगलकारी स्वरूप ganapati ke mangalakaaree svaroop

● गणेश अथर्वशीर्ष पाठ के लाभ Benefits of Ganesh Atharvashirsh Lesson

No comments:

Post a Comment