Pages

Sunday, April 18, 2021

श्रीशिवाष्टोत्तरशतनामावलिःShree Shishvashtottara Shantnamavali:

 श्रीशिवाष्टोत्तरशतनामावलिः 


Shree Shishvashtottara Shantnamavali:

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ 


ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ 


अथ ध्यानम् । 


शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ 


अथ नामावलिः । 


ॐ शिवाय नमः । ॐ महेश्वराय नमः । ॐ शम्भवे नमः । ॐ पिनाकिने नमः । ॐ शशिशेखराय नमः । ॐ वामदेवाय नमः । ॐ विरूपाक्षाय नमः । ॐ कपर्दिने नमः । ॐ नीललोहिताय नमः । ॐ शङ्कराय नमः । १०


 ॐ शूलपाणिने नमः । ॐ खट्वाङ्गिने नमः । ॐ विष्णुवल्लभाय नमः । ॐ शिपिविष्टाय नमः । ॐ अम्बिकानाथाय नमः । ॐ श्रीकण्ठाय नमः । ॐ भक्तवत्सलाय नमः । ॐ भवाय नमः । ॐ शर्वाय नमः । ॐ त्रिलोकेशाय नमः । २० 


ॐ शितिकण्ठाय नमः । ॐ शिवाप्रियाय नमः । ॐ उग्राय नमः । ॐ कपालिने नमः । ॐ कामारये नमः । ॐ अन्धकासुरसूदनाय नमः । ॐ गङ्गाधराय नमः । ॐ ललाटाक्षाय नमः । ॐ कलिकालाय नमः । ॐ कृपानिधये नमः । ३०


 ॐ भीमाय नमः । ॐ परशुहस्ताय नमः । ॐ मृगपाणये नमः । ॐ जटाधराय नमः । ॐ कैलासवासिने नमः । ॐ कवचिने नमः । ॐ कठोराय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ वृषाङ्गाय नमः । ॐ वृषभारूढाय नमः । ४० 


ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ सामप्रियाय नमः । ॐ स्वरमयाय नमः । ॐ त्रयीमूर्तये नमः । ॐ अनीश्वराय नमः । ॐ सर्वज्ञाय नमः । ॐ परमात्मने नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ हविषे नमः । ॐ यज्ञमयाय नमः । ५० 


ॐ सोमाय नमः । ॐ पञ्चवक्त्राय नमः । ॐ सदाशिवाय नमः । ॐ विश्वेश्वराय नमः । ॐ वीरभद्राय नमः । ॐ गणनाथाय नमः । ॐ प्रजापतये नमः । ॐ हिरण्यरेतसे नमः । ॐ दुर्धर्षाय नमः । ॐ गिरिशाय नमः । ६० 


ॐ अनघाय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ भर्गाय नमः । ॐ गिरिधन्वने नमः । ॐ गिरिप्रियाय नमः । ॐ कृत्तिवाससे नमः । ॐ पुरारातये नमः । ॐ भगवते नमः । ॐ प्रमथाधिपाय नमः । ॐ मृत्युञ्जयाय नमः । ७०


 ॐ सूक्ष्मतनवे नमः । ॐ जगद्व्यापिने नमः । ॐ जगद्गुरुवे नमः । ॐ व्योमकेशाय नमः । ॐ महासेनजनकाय नमः । ॐ चारुविक्रमाय नमः । ॐ रुद्राय नमः । ॐ भूतपतये नमः । ॐ स्थाणवे नमः । ॐ अहिर्बुध्न्याय नमः । ८० 


ॐ दिगम्बराय नमः । ॐ अष्टमूर्तये नमः । ॐ अनेकात्मने नमः । ॐ सात्त्विकाय नमः । ॐ शुद्धविग्रहाय नमः । ॐ शाश्वताय नमः । ॐ खण्डपरशवे नमः । ॐ रजसे नमः । ॐ पाशविमोचनाय नमः । ॐ मृडाय नमः । ९० 


ॐ पशुपतये नमः । ॐ देवाय नमः । ॐ महादेवाय नमः । ॐ अव्ययाय नमः । ॐ हरये नमः । ॐ भगनेत्रभिदे नमः । ॐ अव्यक्ताय नमः । ॐ दक्षाध्वरहराय नमः । ॐ हराय नमः । ॐ पूषादन्तभिदे नमः । १०० 


ॐ अव्यग्राय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपदे नमः । ॐ अपवर्गप्रदाय नमः । ॐ अनन्ताय नमः । ॐ तारकाय नमः । ॐ परमेश्वराय नमः । ॐ त्रिलोचनाय नमः । १०८


 ॥ इति श्रीशिवाष्टोत्तरशतनामावलिः ॥

No comments:

Post a Comment